Sri Renuka Ashtottara Shatanama Stotram – श्री रेणुका 108 नाम स्तोत्रम्

Renuka

Renuka

Sri Renuka Ashtottara Shatanama Stotram – श्री रेणुका अष्टोत्तरशतनाम स्तोत्रम्

 

॥ विनियोग ॥

अस्य श्रीरेणुकादेव्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य शाण्डिल्य ऋषिः अनुष्टुप्छन्दः श्रीजगदम्बा रेणुकादेवता ॐ बीजं नमः शक्तिः ॐ महादेवीतिकीलकं श्रीजगदम्बारेणुकाप्रसादसिद्ध्यर्थं सर्वपापक्षयद्वारा श्रीजगदम्बारेणुकाप्रीत्यर्थं सर्वाभीष्टफलप्राप्त्यर्थं च जपे विनियोगः।

॥ करन्यास ॥

ॐ ह्रां रेणुकायै नमः अङ्गुष्ठाभ्यां नमः। ॐ ह्रीं राममात्रे नमः तर्जनीभ्यां नमः। ॐ ह्रूं महापुरूषवासिन्यै नमः मध्यमाभ्यां नमः। ॐ ह्रै एकवीरायै नमः अनामिकाभ्यां नमः। ॐ ह्रौं कालरात्र्यै नमः कनिष्ठिकाभ्या नमः । ॐ ह्रः एककाल्यै नमः करतलकरपृष्ठाभ्यां नमः।

॥ हृदयादिन्यास ॥

ॐ ह्रां रेणुकायै नमः हृदयाय नमः।ॐ ह्रीं राममात्रे नमः शिरसे स्वाहा। ॐ ह्रूं महापुरूषवासिन्यै नमः शिखायै वषट्। ॐ ह्रैं एकवीरायै नमः कवचाय हुम्। ॐ ह्रौं कालरात्र्यै नमः नेत्रत्रयाय वौषट्।ॐह्रः एककाल्यै नमः अस्त्राय फट्।

॥ देहन्यास ॥

ॐ ह्रां रेणुकायै नमः शिरसे स्वाहा। ॐ ह्रीं राममात्रे नमः मुखे। ॐ ह्रूं महापुरूषवासिन्यै नमः हृदये। ॐ ह्रै एकवीरायै नमः गुह्ये। ॐ ह्रौं कालरात्र्यै नमः पादयोः। ॐ ह्रः एककाल्यै नमः सर्वाङ्गे। ॐ भूर्भुवः स्व इति दिग्बन्धः।

॥ ध्यान ॥

ध्यायेन्नित्यमपूर्ववेशललितां कन्दर्पलावण्यदां
देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ।
लीलाविग्रहणीं विराजितभुजां सच्चन्द्रहासादिभि:
भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥

॥ स्तोत्र ॥

ॐ जगदम्बा जगद्वन्द्या महाशक्तिर्महेश्वरी ।
महादेवी महाकाली महालक्ष्मीः सरस्वती ॥ १॥

महावीरा महारात्रिः कालरात्रिश्च कालिका ।
सिद्धविद्या राममाता शिवा शान्ता ऋषिप्रिया ॥२॥

नारायणी जगन्माता जगद्बीजा जगत्प्रभा ।
चन्द्रिका चन्द्रचूडा च चन्द्रायुधधरा शुभा ॥३॥

भ्रमराम्बा तथानन्दा रेणुका मृत्युनाशिनी ।
दुर्गमा दुर्लभा गौरी दुर्गा भर्गकुटुम्बिनी ॥४॥

कात्यायनी महामाता रुद्राणी चाम्बिका सती ।
कल्पवृक्षा कामधेनुः चिन्तामणिरूपधारिणी ॥५॥

सिद्धाचलवासिनी च सिद्धवृन्दसुशोभिनी ।
ज्वालामुखी ज्वलत्कान्ता ज्वाला प्रज्वलरूपिणी ॥६॥

अजा पिनाकिनी भद्रा विजया विजयोत्सवा ।
कुष्ठरोगहरा दीप्ता दुष्टासुरगर्वमर्दिनी ॥७॥

सिद्धिदा बुद्धिदा शुद्धा नित्यानित्यतपः क्रिया ।
निराधारा निराकारा निर्माया च शुभप्रदा ॥८॥

अपर्णा चान्नपूर्णा च पूर्णचन्द्रनिभानना ।
कृपाकरा खड्गहस्ता छिन्नहस्ता चिदम्बरा ॥९॥

चामुण्डी चण्डिकानन्ता रत्नाभरणभूषिता ।
विशालाक्षी च कामाक्षी मीनाक्षी मोक्षदायिनी ॥१०॥

सावित्री चैव सौमित्री सुधा सद्भक्तरक्षिणी ।
शान्तिश्च शान्त्यतीता च शान्तातीततरा तथा ॥११॥

शाकम्भरी तथा सूक्ष्मा शाङ्करी परमेश्वरी।
ईशानी नैर्ऋती सौम्या माहेन्द्री वारूणी तथा॥१२॥

जमदग्नितमोहन्त्री धर्मार्थकाममोक्षदा ।
कामदा कामजननी मातृका सूर्यकान्तिनी ॥१३॥

मन्त्रसिद्धिर्महातेजा मातृमण्डलवल्लभा ।
लोकप्रिया रेणुतनया भवानी रौद्ररूपिणी ॥१४॥

तुष्टिदा पुष्टिदा चैव शाम्भवी सर्वमङ्गला ।
एतदष्टोत्तरशतं नामस्तोत्रम् पठेत्सदा ॥१५॥

सर्वसम्पत्करं दिव्यं सर्वाभीष्टफलप्रदम् ।
अष्टसिद्धियुतं चैव सर्वपापनिवारणम् ॥१६॥

॥ इति श्रीशाण्डिल्यमहर्षिविरचिता श्रीरेणुकादेव्यष्टोत्तरशतनामास्तोत्रम् सम्पूर्णम्॥

Other Keywords:-

Renuka Ashtottara Shatanama Stotra, Renuka Ashtottara Shatanama Renuka, lord Renuka Ashtottara Shatanama stotra, sri Renuka stotra, Stotra Renuka god, shree Renuka, lord sri Renuka ashtottara shatanama stotram, Renuka Stotram in hindi, Renuka Ashtottara Shatnama Stotram in sanskrit, Download Sri Renuka Ashtottara Shatanama Stotram in PDF, Sri Renuka Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Renuka, Free download shri Renuka ashtottara shatanama stotra, Renuka Ashtottara Shatanama Stotram

Sri Shiv Ashtottara Shatanama stotram – श्री शिव 108 नाम स्तोत्रम्

Mahadev

Mahadev

Sri Shiv Ashtottara Shatanama stotram श्री शिव अष्टोत्तर शतनामस्तोत्रम्

 

।।ध्यान।।

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारूचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्।।

।। स्तोत्र ।।

शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥

शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥

भवः शर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः ।
उग्रः कपालिः कामारिरन्धकासुरसूदनः ॥३॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥

कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥

व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥

अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ।
शाश्वतः खण्डपरशुरजपाशविमोचकः ॥११॥

मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः ।
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥

भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥

इमानि दिव्यनामानि जप्यन्ते सर्वदा मया।
नामकल्पलतेंय मे सर्वाभीष्टप्रदायिनी।।१४।।

नामान्येतानि सुभगे शिवदानि न संशयः।
वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः।।१५।।

एतानि यानि नामानि तानि सर्वार्थदान्यतः।
जप्यन्ते सादरं नित्यं मया नियमपूर्वकम्।।१६।।

वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च।
सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि।।१७।।

तेभ्यो नामानि संगृह्य कुमाराय महेश्वरः।
अष्टोत्तरसहस्त्रं तु नाम्नामुपदिशत् पुरा।।१८।।

।। इति शाक्तप्रमोदे श्रीशिवाष्टोत्तशतनामस्तोत्रं सम्पूर्णम्।।

Other Keywords:-

Shiv Ashtottara Shatanama Stotra, Shiv Ashtottara Shatanama Shiv, lord Shiv Ashtottara Shatanama stotra, sri Shiv stotra, Stotra Shiv god, shree Shiv, lord sri Shiv ashtottara shatanama stotram, Shiv Stotram in hindi, Shiv Ashtottara Shatnama Stotram in sanskrit, Download Sri Shiv Ashtottara Shatanama Stotram in PDF, Sri Shiv Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Shiv, Free download shri Shiv ashtottara shatanama stotra, MahaDev Ashtottara Shatanama Stotram

Sri Vishnu Ashtottara Shatanama stotram – श्री विष्णु 108 नाम स्तोत्रम्

Vishnu

Vishnu

Sri Vishnu Ashtottara Shatanama stotram – श्री विष्णु अष्टोत्तरशतनाम स्तोत्रम्

 

।। ध्यान ।।

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरूहेक्षणम्।
सहारवक्षः स्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम्।।

।। स्तोत्र ।।

अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः ।
यस्य श्रवणमात्रेण नरो नारायणो भवेत् ॥१॥

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः ।
दामोदरो दीनबन्धुरादिदेवोऽदितेः सुतः ॥ २ ॥

पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारी विश्वात्मा कृष्णः कलिमलापहः ॥३॥

कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥४॥

हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः ।
वामनो वेदवक्ता च वासुदेवः सनातनः ॥५॥

रामो विरामो विरतो रावणारी रमापतिः ।
वैकुण्ठवासी वसुमान् धनदो धरणीधरः ॥६॥

धर्मेशो धरणीनाथो ध्येयो धर्मभृतां वरः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥७॥

सर्वगः सर्ववित् सर्वशरण्यः साधुवल्लभः ।
कौसल्यानन्दनः श्रीमान् रक्षः कुलविनाशकः ॥८॥

जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा ।
जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥९॥

क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा ।
शेषशायी पन्नगारिवाहनो विष्टरश्रवाः ॥१०॥

माधवो मथुरानाथो मोहदो मोहनाशनः ।
दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ॥११॥

सोमः सूर्याग्निनयनो नृसिंहो भक्तवत्सलः ।
नित्यो निरामयः शुद्धो नरदेवो जगत्प्रभुः ॥१२॥

हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः ।
सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥१३॥

सौम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ।
यशोदातनयो योगी योगशास्त्रपरायणः ॥१४॥

रुद्रात्मको रुद्रमूर्ती राघवो मधुसूदनः ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥१५॥

सर्वपापहरं पुण्यं विष्णोरमिततेजसः ।
दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम् ॥१६॥

सर्वसम्पत्करं सौम्यं महापातकनाशनम् ।
प्रातरुत्थाय विपेन्द्र पठेदेकाग्रमानसः ।
तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ १७ ॥

॥ इति श्रीपद्मपुराणे उत्तरखण्डे श्रीविष्णोरष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम्॥

Other Keywords:-

Vishnu Ashtottara Shatanama Stotra, Vishnu Ashtottara Shatanama Vishnu, lord Vishnu Ashtottara Shatanama stotra, sri Vishnu stotra, Stotra Vishnu god, shree Vishnu, lord sri Vishnu ashtottara shatanama stotram, Vishnu Stotram in hindi, Vishnu Ashtottara Shatnama Stotram in sanskrit, Download Sri Vishnu Ashtottara Shatanama Stotram in PDF, Sri Vishnu Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Vishnu, Free download shri Vishnu ashtottara shatanama stotra, Vishnu Dev Ashtottara Shatanama Stotram

Sri Narasimha Ashtottara Shatanama stotram – श्री नृसिंह 108 नाम स्तोत्रम्

Narasimha

Narasimha

Sri Narasimha Ashtottara Shatanama stotram – श्री नृसिंह अष्टोत्तरशतनाम स्तोत्रम्

 

।। ध्यान ।।

श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।

।। स्तोत्र ।।

नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवः स्तम्भजश्चोग्रलोचनः ॥१॥

रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥२॥

पञ्चाननः परब्रह्म चाघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥३॥

निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादम्ष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥४॥

हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रः सुभद्रकः ॥५॥

करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिम्शुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥६॥

भैरवाडम्बरो दिव्यश्चाच्युतः कविमाधवः ।
अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः ॥७॥

विश्वम्भरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः ।
अनघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः ॥८॥

सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः ।
वज्रदम्ष्ट्रो वज्रनखो महानन्दः परन्तपः ॥९॥

सर्वयन्त्रैकरूपश्च सर्वयन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥१०॥

वैशाखशुक्लभूतोत्थः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥११॥

वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥१२॥

जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परंज्योतिर्निर्गुणश्च नृकेसरी ॥१३॥

परतत्त्वं परन्धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः ॥ १४ ॥

इदं लक्ष्मीनृसिंहस्य नाम्नामष्टोत्तरं शतम्।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥१५॥

।। इति श्रीनृसिंहपूजाकल्पे श्रीलक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ।।

Other Keywords:-

Narasimha Ashtottara Shatanama Stotra, Narasimha Ashtottara Shatanama Narasimha, lord Narasimha Ashtottara Shatanama stotra, sri Narasimha stotra, Stotra Narasimha god, shree Narasimha, lord sri Narasimha ashtottara shatanama stotram, Narasimha Stotram in hindi, Narasimha Ashtottara Shatnama Stotram in sanskrit, Download Sri Narasimha Ashtottara Shatanama Stotram in PDF, Sri Narasimha Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Narasimha, Free download shri Narasimha ashtottara shatanama stotra, Narasimha Dev Ashtottara Shatanama Stotram

Sri Krishna Ashtottara Shatanama Stotram – श्री कृष्ण 108 नाम स्तोत्रम्

Krishana

Krishana

Sri Krishna Ashtottara Shatanama Stotram – श्री कृष्ण अष्टोत्तरशतनाम स्तोत्रम्

॥ ध्यान ॥

शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम्।
मधुररवकलेशं शं भजे भ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम्।।

॥ स्तोत्र ॥

श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥१॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥२॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४ ॥

नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥ ५ ॥

षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ।
शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः ॥ ६ ॥

वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥

उत्तालतालभेत्ता च तमालश्यामलाकृतिः ।
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥ ८ ॥

इलापतिः परं ज्योतिर्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।
अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥ १० ॥

मधुहा मथुरानाथो द्वारकानायको बली ।
वृन्दावनान्तसंचारी तुलसीदामभूषणः ॥ ११ ॥

स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ॥ १२ ॥

मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ।
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ॥ १३ ॥

अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः ॥ १४ ॥

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक्सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥

वृषभासुरविध्वंसी बाणासुरकरान्तक ।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ १७ ॥

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ १८ ॥

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः ।
नारायणः परब्रह्म पन्नगाशनवाहनः ॥ १९ ॥

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ २० ॥

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ।
एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥ २१ ॥

कृष्णनामामृतं नाम परमानन्दकायकम् ।
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् ॥ २२ ॥

।। इति श्रीपद्मपुराणे उत्तरखण्डे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।।

Other Keywords:-

Krishna Ashtottara Shatanama Stotra, Krishna Ashtottara Shatanama Krishna, lord Krishna Ashtottara Shatanama stotra, sri Krishna stotra, Stotra Krishna god, shree Krishna, lord sri Krishna ashtottara shatanama stotram, Krishna Stotram in hindi, Krishna Ashtottara Shatnama Stotram in sanskrit, Download Sri Krishna Ashtottara Shatanama Stotram in PDF, Sri Krishna Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Krishna, Free download shri Krishna ashtottara shatanama stotra, Krishna Dev Ashtottara Shatanama Stotram

Sri Harihara Ashtottara Shatanama Stotram – श्री हरिहर 108 नाम स्तोत्रम्

Harihara

Harihara

Sri Harihara Ashtottara Shatanama Stotram – श्री हरिहर अष्टोत्तर शतनाम स्तोत्रम्

॥ध्यान॥

माधवोमाधवावीशौ सर्वसिद्धिविधायिनौ।
वन्दे परस्परात्मानौ परस्परनतिप्रियौ।।

॥ स्तोत्र ॥

गोविन्द माधव मुकुन्द हरे मुरारे
शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराच्युत जनार्दन वासुदेव
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १ ॥

गङ्गाधरान्धकरिपो हर नीलकण्ठ
वैकुण्ठ कैटभरिपो कमठाब्जपाणे ।
भूतेश खण्डपरशो मृड चण्डिकेश
त्याज्या भटा य इति सन्ततमामनन्ति ॥ २ ॥

विष्णो नृसिंह मधुसूदन चक्रपाणे
गौरीपते गिरिश शङ्कर चन्द्रचूड।
नारायणासुरनिबर्हण शार्ङ्गपाणे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ३ ॥

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो
श्रीकान्त पीतवसनाम्बुदनील शौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ४ ॥

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य
श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।
आनन्दकन्द धरणीधर पद्मनाभ
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ५ ॥

सर्वेश्वर त्रिपुरसूदन देवदेव
ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।
त्र्यक्षोरगाभरण बालमृगाङ्कमौले
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ६ ॥

श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ७ ॥

शूलिन् गिरीश रजनीशकलावतंस
कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ८ ॥

गोपीपते यदुपते वसुदेवसूनो
कर्पूरगौर वृषभध्वज भालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ९ ॥

स्थाणो त्रिलोचन पिनाकधर स्मरारे
कृष्णानिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १० ॥

अष्टोत्तराधिकशतेन सुचारुनाम्नां
सन्दर्भितां ललितरत्नकदम्बकेन ।
सन्नामकां दृढगुणां द्विजकण्ठगां यः
कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११ ॥

॥ अगास्तिरूवाच ॥

यो धर्मराज रचितां ललितप्रबन्धां
नामावलीं सकलकल्मषबीजहन्त्रीम् ।
धीरोऽत्र कौस्तुभभृतः शशिभूषणस्य
नित्यं जपेत् स्तनरसं स पिबेन्न मातुः ॥ १२ ॥

॥इति श्रीस्कन्दमहापुराणे काशीखण्डपूर्वार्धे यमप्रोक्तं श्रीहरिहराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Other Keywords:-

Harihara Ashtottara Shatanama Stotra, Harihara Ashtottara Shatanama Harihara, lord Harihara Ashtottara Shatanama stotra, sri Harihara stotra, Stotra Harihara god, shree Harihara, lord sri Harihara ashtottara shatanama stotram, Harihara Stotram in hindi, Harihara Ashtottara Shatnama Stotram in sanskrit, Download Sri Harihara Ashtottara Shatanama Stotram in PDF, Sri Harihara Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Harihara, Free download shri Harihara ashtottara shatanama stotra, Harihara Dev Ashtottara Shatanama Stotram

Sri Saraswati Ashtottara Satanama Stotram – श्री सरस्वती 108 नाम स्तोत्रम्

Sarswati Devi

Sarswati Devi

Sri Saraswati Ashtottara Satanama Stotram – श्री सरस्वति अष्टोत्तर शतनाम स्तोत्रम्

।। ध्यान ।।

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमणि्डतकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निः शेषजाड्यापहा।।

।। स्तोत्र ।।

सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रका॥ १ ॥

शिवानुजा पुस्तकभृत् ज्ञानमुद्रा रमा परा ।
कामरूपा महाविद्या महापातकनाशिनी ॥ २ ॥

महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥ ३ ॥

महाकाली महापाशा महाकारा महाङ्कुशा ।
पीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥ ४ ॥

चन्द्रिका चन्द्रवदना चन्द्रलेखाविभूषिता ।
सावित्री सुरसा देवी दिव्यालङ्कारभूषिता ॥ ५ ॥

वाग्देवी वसुदा तीव्रा महाभद्रा महाबला ।
भोगदा भारती भामा गोविन्दा गोमती शिवा ॥ ६ ॥

जटिला विन्ध्यवासा च विन्ध्याचलविराजिता ।
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥ ७ ॥

सौदामिनी सुधामूर्तिः सुभद्रा सुरपूजिता ।
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥ ८ ॥

विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ।
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥ ९ ॥

शुम्भासुरप्रमथिनी शुभदा च स्वरात्मिका ।
रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ॥ १० ॥

मुण्डकायप्रहरणा धूम्रलोचनमर्दना ।
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥ ११ ॥

कालरात्रीः कलाधारा रूपसौभाग्यदायिनी ।
वाग्देवी च वरारोहा वाराही वारिजासना ॥ १२ ॥

चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता ।
कान्ता कामप्रदा वन्द्या विद्याधरसुपूजिता ॥ १३ ॥

श्वेतानना नीलभुजा चतुर्वर्गफलप्रदा ।
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ॥ १४ ॥

हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ।
एवं सरस्वती देव्या नाम्नामष्टोत्तरं शतम् ॥ १५ ॥

।। इति श्रीसरस्वत्यष्टोत्तशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:-

Saraswati Ashtottara Shatanama Stotra, Saraswati Ashtottara Shatanama Saraswati, lord Saraswati Ashtottara Shatanama stotra, sri Saraswati stotra, Stotra Saraswati god, shree Saraswati, lord sri Saraswati ashtottara shatanama stotram, Saraswati Stotram in hindi, Saraswati Ashtottara Shatnama Stotram in sanskrit, Download Sri Saraswati Ashtottara Shatanama Stotram in PDF, Sri Saraswati Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Saraswati, Free download shri Saraswati ashtottara shatanama stotra, Saraswati Devi Ashtottara Shatanama Stotram

Sri Annapurna Ashtottara Satanama Stotram – श्री अन्नपूर्णा 108 नाम स्तोत्र

Annapurna

Annapurna

Sri Annapurna Ashtottara Satanama Stotram – श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम्

॥ विनियोग ॥

अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, श्री अन्नपूर्णेत्यधिदेवता, स्वधा बीजम् स्वाहा शक्तिः, ओं कीलकम् मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।

॥ ध्यान ॥

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रक्तवस्त्रां पीनोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम्।
नानालङ्कारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति
देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णा नमामि।।

॥ स्तोत्र ॥

ॐ अन्नपूर्णा शिवा देवी भीमा पुष्टिः सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १ ॥

वेदविद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २ ॥

भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३ ॥

भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४ ॥

भवानी चञ्चला गौरी चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५ ॥

आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६ ॥

अम्बा संहारमथनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७ ॥

परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परानन्दप्रदायिनी ॥ ८ ॥

परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥ ९ ॥

शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ १० ॥

चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
मार्तण्डनयना साध्वी चन्द्राग्निनयना सती ॥ ११ ॥

पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥ १२ ॥

असृष्टिः सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ १३ ॥

मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ १४ ॥

सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥ १५ ॥

नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १६ ॥

एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् ।
स्तुत्वा देवीं च सततं सर्वान्कामानवाप्नुयात् ॥ १९ ॥

॥ इति श्रीशिवरहस्ये श्रीअन्नपूर्णाष्टोत्तर शतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:-

Annapurna Ashtottara Shatanama Stotra, Annapurna Ashtottara Shatanama Annapurna, lord Annapurna Ashtottara Shatanama stotra, sri Annapurna stotra, Stotra Annapurna god, shree Annapurna, lord sri Annapurna ashtottara shatanama stotram, Annapurna Stotram in hindi, Annapurna Ashtottara Shatnama Stotram in sanskrit, Download Sri Annapurna Ashtottara Shatanama Stotram in PDF, Sri Annapurna Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Annapurna, Free download shri Annapurna ashtottara shatanama stotra, Annapurna Devi Ashtottara Shatanama Stotram

Sri Radha 108 | Ashtottara Shatanama Stotram श्री राधा-अष्टोत्तरशतनामस्तोत्रम्

Radha Maa

Radha Maa

Sri Radha Ashtottara Shatanama stotram श्री राधा-अष्टोत्तरशतनामस्तोत्रम्

॥ध्यान॥

हेमाभां द्विभुजां वराभयकरां नीलाम्बरेणावृतां
श्यामक्रोडविलासिनीं भगवतीं सिन्दूरपुञ्जोज्ज्वलाम् ।
लोलाक्षीं नवयौवनां स्मितमुखीं बिम्बाधरां राधिकां
नित्यानन्दमयीं विलासनिलयां दिव्याङ्गभूषां भजे ॥

॥ स्तोत्र ॥
अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद् ध्रुवम् ॥१॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥२॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।
गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥३॥

चन्द्रावलीसपत्नी च दर्पणास्या कलावती ।
कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥४॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।
प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥५॥

केकराक्षी हरेः कान्ता महालक्ष्मी सुकेलिनी ।
सङ्केतवटसंस्थाना कमनीया च कामिनी ॥६॥

वृषभानुसुता राधा किशोरी ललिता लता ।
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥७॥

केशिनी केशवसखी नवनीतैकविक्रया ।
षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥८॥

हर्षिणी वर्षिणी वीरा धीरा धारा धरा धृतिः ।
यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥९॥

वृषभानुपुरावासा मानलीलाविशारदा ।
दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥१०॥

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।
सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥११॥

तारिणी हारिणी ह्रीला शीला लीला ललामिका ।
गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥१२॥

स्वाधीनपतिका चोक्ता खण्डिता याभिसारिका ।
रसिका रसिना रस्या रसशास्त्रैकशेवधिः ॥१३॥

पालिका लालिका लज्जा लालसा ललनामणिः ।
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥१४॥

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।
मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥१५॥

अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।
इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरं शतम् ॥१६॥

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।
एकैकनामोच्चारेण वशीभवति केशवः ॥१७॥

॥ इत्यूर्ध्वाम्नाये श्रीराधाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Other Keywords:-

Radha Ashtottara Shatanama Stotra, Radha Ashtottara Shatanama Radha, lord Radha Ashtottara Shatanama stotra, sri Radha stotra, Stotra Radha god, shree Radha, lord sri Radha ashtottara shatanama stotram, Radha Stotram in hindi, Radha Ashtottara Shatnama Stotram in sanskrit, Download Sri Radha Ashtottara Shatanama Stotram in PDF, Sri Radha Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Radha, Free download shri Radha ashtottara shatanama stotra, Radha Devi Ashtottara Shatanama Stotram

Sri Sita (108) Ashtottara Shatanama stotram श्री सीता-अष्टोत्तरशतनामस्तोत्रम्

Sita Mata

Sita Mata

Sri Sita Ashtottara Shatanama stotram श्री सीता-अष्टोत्तरशतनामस्तोत्रम्
 

॥ विनियोग ॥

अस्य श्रीसीतानामाष्टोत्तरमन्त्रस्य अगस्तिऋषिः। अनुष्टुप्छन्दः । रमेति बीजम् । मातुलुङ्गीति शक्तिः। पद्माक्षजेति कीलकम्। अवनिजेत्यस्त्रम्। जनकजेति कवचम्। मूलकासुरमर्दिनीति परमो मन्त्रः। श्रीसीतारामचन्द्रप्रीत्यर्थ सकलकामनासिद्ध्यर्थं जपे विनियोगः।

॥ करन्यास ॥

ॐ सीतायै अङ्गुष्ठाभ्यां नमः। ॐ रमायै तर्जनीभ्यां नमः। ॐ मातुलुङ्ग्यै मध्यमाभ्यां नमः। ॐ पद्माक्षजायै अनामिकाभ्यां नमः। ॐ अवनिजायै कनिष्ठिकाभ्यां नमः। ॐ जनकजायै करतलकरपृष्ठाभ्यां नमः।

॥ हृदयादिन्यास ॥

ॐ सीतायै हृदयाय नमः। ॐ रमायै शिरसे स्वाहा । ॐ मातुलुङ्ग्यै शिखायै वषट्। ॐ पद्माक्षजायै नेत्रत्रयाय वौषट्। ॐ जनकात्मजायै अस्त्राय फट्। ॐ मूलकासुरमर्दिन्यै इति दिग्बन्धः।

॥ ध्यान ॥

वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना
या विप्राधिपयानरम्यनयना या विप्रपालानना।
विद्युत्पुञ्जविराजमानवसना भक्तार्तिसंखण्डना
श्रीमद्राघवपादपद्मयुगलन्यस्तेक्षणा सावतु॥

॥ स्तोत्र ॥

श्री सीता जानकी देवी वैदेही राघवप्रिया।
रमावनिसुता रामा राक्षसान्तप्रकारिणी॥१॥

रत्नगुप्ता मातुलुङ्गी मैथिली भक्ततोषदा।
पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना॥२॥

वैकुण्ठनिलया मा श्रीर्मुक्तिदा कामपूरणी।
नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी॥३॥

कुशाम्बिका दिव्यदा च लवमाता मनोहरा।
हनुमद्वन्दितपदा मुग्धा केयूरधारिणी॥४॥

अशोकवनमध्यस्था रावणादिकमोहिनी।
विमानसंस्थिता सुभ्रूः सुकेशी रशनान्विता॥५॥

रजोरूपा सत्त्वरूपा तामसी वह्निवासिनी।
हेममृगासक्तचित्ता वाल्मीक्याश्रमवासिनी॥६॥

पतिव्रता महामाया पीतकौशेयवासिनी।
मृगनेत्रा च बिम्बोष्ठी धनुर्विद्याविशारदा॥७॥

सौम्यरुपा दशरथस्नुषा चामरवीजिता।
सुमेधादुहिता दिव्यरूप त्रैलोक्यपालिनी॥८॥

अन्नपूर्णा महालक्ष्मीर्धीर्लज्जा च सरस्वती।
शान्तिः पुष्टिः क्षमा गौरी प्रभायोध्यानिवासिनी॥९॥

वसन्तशीतला गौरी स्नानसन्तुष्टमानसा।
रमानामभद्रसंस्था हेमकुम्भपयोधरा॥१०॥

सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी।
लघूदरा वरारोहा हेमकङ्कणमण्डिता॥११॥

द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी।
श्रीरामसेवनरता रत्नताटङ्कधारिणी॥१२॥

रामवामाङ्गसंस्था च रामचन्द्रैकरञ्जनी।
सरयूजलसंक्रीडाकारिणी राममोहिनी॥१३॥

सुवर्णतुलिता पुण्या पुण्यकीर्तिः कलावती।
कलकण्ठा कम्बुकण्ठा रम्भोरुर्गजगामिनी॥१४॥

रामार्पितमना रामवन्दिता रामवल्लभा।
श्रीरामपदचिह्नाङ्का रामरामेतिभाषिणी॥१५॥

रामपर्यङ्कशयना रामाङ्घ्रिक्षालिनी वरा।
कामधेन्वन्नसन्तुष्टा मातुलुङ्गकरे धृता॥१६॥

दिव्यचन्दनसंस्था श्रीर्मूलकारसुरमर्दिनी।
एवमष्टोत्तरशतं सीतानाम्नां सुपुण्यदम्॥१७॥

ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः।
अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम्॥१८॥

जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम्।
सति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च॥१९॥

नानेन सदृशानीह तानि सर्वाणि भूसुर।
स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम्॥२०॥

एवं सुतीक्ष्ण ते प्रोक्तमष्टोत्तरशतं शुभम्।
सीतानाम्नां पुण्यदं च श्रवणान्मङ्गलप्रदम्॥२१॥

नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः।
सीतापूजनकालेऽपि सर्ववाञ्छितदायकम्॥२२॥

॥ इति श्री आनन्दरामायणे श्री सीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Sri Sita (108 Naam) Ashtottara Shatanamavali -श्री सीता अष्टोत्तरशतनामावली

Other Keywords:-

Sita Ashtottara Shatanama Stotra, Sita Ashtottara Shatanama Sita, lord Ganga Ashtottara Shatanama stotra, sri Sita stotra, Stotra Sita god, shree Sita , lord sri Sita ashtottara shatanama stotram, Sita Stotram in hindi, Sita Ashtottara Shatnama Stotram in sanskrit, Download Sri Sita Ashtottara Shatanama Stotram in PDF, Sri Sita Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Sita, Free download shri Sita ashtottara shatanama stotra, Sita Devi Ashtottara Shatanama Stotram, 108 naam stotram