Sri Renuka Ashtottara Shatanama Stotram – श्री रेणुका 108 नाम स्तोत्रम्

Renuka

Renuka

Sri Renuka Ashtottara Shatanama Stotram – श्री रेणुका अष्टोत्तरशतनाम स्तोत्रम्

 

॥ विनियोग ॥

अस्य श्रीरेणुकादेव्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य शाण्डिल्य ऋषिः अनुष्टुप्छन्दः श्रीजगदम्बा रेणुकादेवता ॐ बीजं नमः शक्तिः ॐ महादेवीतिकीलकं श्रीजगदम्बारेणुकाप्रसादसिद्ध्यर्थं सर्वपापक्षयद्वारा श्रीजगदम्बारेणुकाप्रीत्यर्थं सर्वाभीष्टफलप्राप्त्यर्थं च जपे विनियोगः।

॥ करन्यास ॥

ॐ ह्रां रेणुकायै नमः अङ्गुष्ठाभ्यां नमः। ॐ ह्रीं राममात्रे नमः तर्जनीभ्यां नमः। ॐ ह्रूं महापुरूषवासिन्यै नमः मध्यमाभ्यां नमः। ॐ ह्रै एकवीरायै नमः अनामिकाभ्यां नमः। ॐ ह्रौं कालरात्र्यै नमः कनिष्ठिकाभ्या नमः । ॐ ह्रः एककाल्यै नमः करतलकरपृष्ठाभ्यां नमः।

॥ हृदयादिन्यास ॥

ॐ ह्रां रेणुकायै नमः हृदयाय नमः।ॐ ह्रीं राममात्रे नमः शिरसे स्वाहा। ॐ ह्रूं महापुरूषवासिन्यै नमः शिखायै वषट्। ॐ ह्रैं एकवीरायै नमः कवचाय हुम्। ॐ ह्रौं कालरात्र्यै नमः नेत्रत्रयाय वौषट्।ॐह्रः एककाल्यै नमः अस्त्राय फट्।

॥ देहन्यास ॥

ॐ ह्रां रेणुकायै नमः शिरसे स्वाहा। ॐ ह्रीं राममात्रे नमः मुखे। ॐ ह्रूं महापुरूषवासिन्यै नमः हृदये। ॐ ह्रै एकवीरायै नमः गुह्ये। ॐ ह्रौं कालरात्र्यै नमः पादयोः। ॐ ह्रः एककाल्यै नमः सर्वाङ्गे। ॐ भूर्भुवः स्व इति दिग्बन्धः।

॥ ध्यान ॥

ध्यायेन्नित्यमपूर्ववेशललितां कन्दर्पलावण्यदां
देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् ।
लीलाविग्रहणीं विराजितभुजां सच्चन्द्रहासादिभि:
भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥

॥ स्तोत्र ॥

ॐ जगदम्बा जगद्वन्द्या महाशक्तिर्महेश्वरी ।
महादेवी महाकाली महालक्ष्मीः सरस्वती ॥ १॥

महावीरा महारात्रिः कालरात्रिश्च कालिका ।
सिद्धविद्या राममाता शिवा शान्ता ऋषिप्रिया ॥२॥

नारायणी जगन्माता जगद्बीजा जगत्प्रभा ।
चन्द्रिका चन्द्रचूडा च चन्द्रायुधधरा शुभा ॥३॥

भ्रमराम्बा तथानन्दा रेणुका मृत्युनाशिनी ।
दुर्गमा दुर्लभा गौरी दुर्गा भर्गकुटुम्बिनी ॥४॥

कात्यायनी महामाता रुद्राणी चाम्बिका सती ।
कल्पवृक्षा कामधेनुः चिन्तामणिरूपधारिणी ॥५॥

सिद्धाचलवासिनी च सिद्धवृन्दसुशोभिनी ।
ज्वालामुखी ज्वलत्कान्ता ज्वाला प्रज्वलरूपिणी ॥६॥

अजा पिनाकिनी भद्रा विजया विजयोत्सवा ।
कुष्ठरोगहरा दीप्ता दुष्टासुरगर्वमर्दिनी ॥७॥

सिद्धिदा बुद्धिदा शुद्धा नित्यानित्यतपः क्रिया ।
निराधारा निराकारा निर्माया च शुभप्रदा ॥८॥

अपर्णा चान्नपूर्णा च पूर्णचन्द्रनिभानना ।
कृपाकरा खड्गहस्ता छिन्नहस्ता चिदम्बरा ॥९॥

चामुण्डी चण्डिकानन्ता रत्नाभरणभूषिता ।
विशालाक्षी च कामाक्षी मीनाक्षी मोक्षदायिनी ॥१०॥

सावित्री चैव सौमित्री सुधा सद्भक्तरक्षिणी ।
शान्तिश्च शान्त्यतीता च शान्तातीततरा तथा ॥११॥

शाकम्भरी तथा सूक्ष्मा शाङ्करी परमेश्वरी।
ईशानी नैर्ऋती सौम्या माहेन्द्री वारूणी तथा॥१२॥

जमदग्नितमोहन्त्री धर्मार्थकाममोक्षदा ।
कामदा कामजननी मातृका सूर्यकान्तिनी ॥१३॥

मन्त्रसिद्धिर्महातेजा मातृमण्डलवल्लभा ।
लोकप्रिया रेणुतनया भवानी रौद्ररूपिणी ॥१४॥

तुष्टिदा पुष्टिदा चैव शाम्भवी सर्वमङ्गला ।
एतदष्टोत्तरशतं नामस्तोत्रम् पठेत्सदा ॥१५॥

सर्वसम्पत्करं दिव्यं सर्वाभीष्टफलप्रदम् ।
अष्टसिद्धियुतं चैव सर्वपापनिवारणम् ॥१६॥

॥ इति श्रीशाण्डिल्यमहर्षिविरचिता श्रीरेणुकादेव्यष्टोत्तरशतनामास्तोत्रम् सम्पूर्णम्॥

Other Keywords:-

Renuka Ashtottara Shatanama Stotra, Renuka Ashtottara Shatanama Renuka, lord Renuka Ashtottara Shatanama stotra, sri Renuka stotra, Stotra Renuka god, shree Renuka, lord sri Renuka ashtottara shatanama stotram, Renuka Stotram in hindi, Renuka Ashtottara Shatnama Stotram in sanskrit, Download Sri Renuka Ashtottara Shatanama Stotram in PDF, Sri Renuka Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Renuka, Free download shri Renuka ashtottara shatanama stotra, Renuka Ashtottara Shatanama Stotram

Sri Shiv Ashtottara Shatanama stotram – श्री शिव 108 नाम स्तोत्रम्

Mahadev

Mahadev

Sri Shiv Ashtottara Shatanama stotram श्री शिव अष्टोत्तर शतनामस्तोत्रम्

 

।।ध्यान।।

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारूचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्।।

।। स्तोत्र ।।

शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥

शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥

भवः शर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः ।
उग्रः कपालिः कामारिरन्धकासुरसूदनः ॥३॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥

कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥

सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥

व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥

अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ।
शाश्वतः खण्डपरशुरजपाशविमोचकः ॥११॥

मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः ।
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥

भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥

इमानि दिव्यनामानि जप्यन्ते सर्वदा मया।
नामकल्पलतेंय मे सर्वाभीष्टप्रदायिनी।।१४।।

नामान्येतानि सुभगे शिवदानि न संशयः।
वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः।।१५।।

एतानि यानि नामानि तानि सर्वार्थदान्यतः।
जप्यन्ते सादरं नित्यं मया नियमपूर्वकम्।।१६।।

वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च।
सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि।।१७।।

तेभ्यो नामानि संगृह्य कुमाराय महेश्वरः।
अष्टोत्तरसहस्त्रं तु नाम्नामुपदिशत् पुरा।।१८।।

।। इति शाक्तप्रमोदे श्रीशिवाष्टोत्तशतनामस्तोत्रं सम्पूर्णम्।।

Other Keywords:-

Shiv Ashtottara Shatanama Stotra, Shiv Ashtottara Shatanama Shiv, lord Shiv Ashtottara Shatanama stotra, sri Shiv stotra, Stotra Shiv god, shree Shiv, lord sri Shiv ashtottara shatanama stotram, Shiv Stotram in hindi, Shiv Ashtottara Shatnama Stotram in sanskrit, Download Sri Shiv Ashtottara Shatanama Stotram in PDF, Sri Shiv Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Shiv, Free download shri Shiv ashtottara shatanama stotra, MahaDev Ashtottara Shatanama Stotram

Sri Vishnu Ashtottara Shatanama stotram – श्री विष्णु 108 नाम स्तोत्रम्

Vishnu

Vishnu

Sri Vishnu Ashtottara Shatanama stotram – श्री विष्णु अष्टोत्तरशतनाम स्तोत्रम्

 

।। ध्यान ।।

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरूहेक्षणम्।
सहारवक्षः स्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम्।।

।। स्तोत्र ।।

अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः ।
यस्य श्रवणमात्रेण नरो नारायणो भवेत् ॥१॥

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः ।
दामोदरो दीनबन्धुरादिदेवोऽदितेः सुतः ॥ २ ॥

पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारी विश्वात्मा कृष्णः कलिमलापहः ॥३॥

कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥४॥

हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः ।
वामनो वेदवक्ता च वासुदेवः सनातनः ॥५॥

रामो विरामो विरतो रावणारी रमापतिः ।
वैकुण्ठवासी वसुमान् धनदो धरणीधरः ॥६॥

धर्मेशो धरणीनाथो ध्येयो धर्मभृतां वरः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥७॥

सर्वगः सर्ववित् सर्वशरण्यः साधुवल्लभः ।
कौसल्यानन्दनः श्रीमान् रक्षः कुलविनाशकः ॥८॥

जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा ।
जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥९॥

क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा ।
शेषशायी पन्नगारिवाहनो विष्टरश्रवाः ॥१०॥

माधवो मथुरानाथो मोहदो मोहनाशनः ।
दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ॥११॥

सोमः सूर्याग्निनयनो नृसिंहो भक्तवत्सलः ।
नित्यो निरामयः शुद्धो नरदेवो जगत्प्रभुः ॥१२॥

हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः ।
सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥१३॥

सौम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ।
यशोदातनयो योगी योगशास्त्रपरायणः ॥१४॥

रुद्रात्मको रुद्रमूर्ती राघवो मधुसूदनः ।
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥१५॥

सर्वपापहरं पुण्यं विष्णोरमिततेजसः ।
दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम् ॥१६॥

सर्वसम्पत्करं सौम्यं महापातकनाशनम् ।
प्रातरुत्थाय विपेन्द्र पठेदेकाग्रमानसः ।
तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ १७ ॥

॥ इति श्रीपद्मपुराणे उत्तरखण्डे श्रीविष्णोरष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम्॥

Other Keywords:-

Vishnu Ashtottara Shatanama Stotra, Vishnu Ashtottara Shatanama Vishnu, lord Vishnu Ashtottara Shatanama stotra, sri Vishnu stotra, Stotra Vishnu god, shree Vishnu, lord sri Vishnu ashtottara shatanama stotram, Vishnu Stotram in hindi, Vishnu Ashtottara Shatnama Stotram in sanskrit, Download Sri Vishnu Ashtottara Shatanama Stotram in PDF, Sri Vishnu Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Vishnu, Free download shri Vishnu ashtottara shatanama stotra, Vishnu Dev Ashtottara Shatanama Stotram

Sri Narasimha Ashtottara Shatanama stotram – श्री नृसिंह 108 नाम स्तोत्रम्

Narasimha

Narasimha

Sri Narasimha Ashtottara Shatanama stotram – श्री नृसिंह अष्टोत्तरशतनाम स्तोत्रम्

 

।। ध्यान ।।

श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम्।।

।। स्तोत्र ।।

नारसिंहो महासिंहो दिव्यसिंहो महाबलः ।
उग्रसिंहो महादेवः स्तम्भजश्चोग्रलोचनः ॥१॥

रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः ।
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥२॥

पञ्चाननः परब्रह्म चाघोरो घोरविक्रमः ।
ज्वलन्मुखो ज्वालमाली महाज्वालो महाप्रभुः ॥३॥

निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः ।
महादम्ष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥४॥

हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः ।
गुणभद्रो महाभद्रो बलभद्रः सुभद्रकः ॥५॥

करालो विकरालश्च विकर्ता सर्वकर्तृकः ।
शिम्शुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥६॥

भैरवाडम्बरो दिव्यश्चाच्युतः कविमाधवः ।
अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः ॥७॥

विश्वम्भरोऽद्भुतो भव्यः श्रीविष्णुः पुरुषोत्तमः ।
अनघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः ॥८॥

सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः ।
वज्रदम्ष्ट्रो वज्रनखो महानन्दः परन्तपः ॥९॥

सर्वयन्त्रैकरूपश्च सर्वयन्त्रविदारणः ।
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥१०॥

वैशाखशुक्लभूतोत्थः शरणागतवत्सलः ।
उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥११॥

वेदत्रयप्रपूज्यश्च भगवान्परमेश्वरः ।
श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥१२॥

जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् ।
परमात्मा परंज्योतिर्निर्गुणश्च नृकेसरी ॥१३॥

परतत्त्वं परन्धाम सच्चिदानन्दविग्रहः ।
लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः ॥ १४ ॥

इदं लक्ष्मीनृसिंहस्य नाम्नामष्टोत्तरं शतम्।
त्रिसन्ध्यं यः पठेद्भक्त्या सर्वाभीष्टमवाप्नुयात् ॥१५॥

।। इति श्रीनृसिंहपूजाकल्पे श्रीलक्ष्मीनृसिंहाष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ।।

Other Keywords:-

Narasimha Ashtottara Shatanama Stotra, Narasimha Ashtottara Shatanama Narasimha, lord Narasimha Ashtottara Shatanama stotra, sri Narasimha stotra, Stotra Narasimha god, shree Narasimha, lord sri Narasimha ashtottara shatanama stotram, Narasimha Stotram in hindi, Narasimha Ashtottara Shatnama Stotram in sanskrit, Download Sri Narasimha Ashtottara Shatanama Stotram in PDF, Sri Narasimha Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Narasimha, Free download shri Narasimha ashtottara shatanama stotra, Narasimha Dev Ashtottara Shatanama Stotram

Sri Krishna Ashtottara Shatanama Stotram – श्री कृष्ण 108 नाम स्तोत्रम्

Krishana

Krishana

Sri Krishna Ashtottara Shatanama Stotram – श्री कृष्ण अष्टोत्तरशतनाम स्तोत्रम्

॥ ध्यान ॥

शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम्।
मधुररवकलेशं शं भजे भ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम्।।

॥ स्तोत्र ॥

श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥१॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥२॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४ ॥

नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥ ५ ॥

षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ।
शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः ॥ ६ ॥

वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥

उत्तालतालभेत्ता च तमालश्यामलाकृतिः ।
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥ ८ ॥

इलापतिः परं ज्योतिर्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।
अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥ १० ॥

मधुहा मथुरानाथो द्वारकानायको बली ।
वृन्दावनान्तसंचारी तुलसीदामभूषणः ॥ ११ ॥

स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ॥ १२ ॥

मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ।
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ॥ १३ ॥

अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः ॥ १४ ॥

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक्सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥

वृषभासुरविध्वंसी बाणासुरकरान्तक ।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ १७ ॥

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ १८ ॥

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः ।
नारायणः परब्रह्म पन्नगाशनवाहनः ॥ १९ ॥

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ २० ॥

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ।
एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥ २१ ॥

कृष्णनामामृतं नाम परमानन्दकायकम् ।
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् ॥ २२ ॥

।। इति श्रीपद्मपुराणे उत्तरखण्डे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।।

Other Keywords:-

Krishna Ashtottara Shatanama Stotra, Krishna Ashtottara Shatanama Krishna, lord Krishna Ashtottara Shatanama stotra, sri Krishna stotra, Stotra Krishna god, shree Krishna, lord sri Krishna ashtottara shatanama stotram, Krishna Stotram in hindi, Krishna Ashtottara Shatnama Stotram in sanskrit, Download Sri Krishna Ashtottara Shatanama Stotram in PDF, Sri Krishna Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Krishna, Free download shri Krishna ashtottara shatanama stotra, Krishna Dev Ashtottara Shatanama Stotram

Sri Harihara Ashtottara Shatanama Stotram – श्री हरिहर 108 नाम स्तोत्रम्

Harihara

Harihara

Sri Harihara Ashtottara Shatanama Stotram – श्री हरिहर अष्टोत्तर शतनाम स्तोत्रम्

॥ध्यान॥

माधवोमाधवावीशौ सर्वसिद्धिविधायिनौ।
वन्दे परस्परात्मानौ परस्परनतिप्रियौ।।

॥ स्तोत्र ॥

गोविन्द माधव मुकुन्द हरे मुरारे
शम्भो शिवेश शशिशेखर शूलपाणे ।
दामोदराच्युत जनार्दन वासुदेव
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १ ॥

गङ्गाधरान्धकरिपो हर नीलकण्ठ
वैकुण्ठ कैटभरिपो कमठाब्जपाणे ।
भूतेश खण्डपरशो मृड चण्डिकेश
त्याज्या भटा य इति सन्ततमामनन्ति ॥ २ ॥

विष्णो नृसिंह मधुसूदन चक्रपाणे
गौरीपते गिरिश शङ्कर चन्द्रचूड।
नारायणासुरनिबर्हण शार्ङ्गपाणे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ३ ॥

मृत्युञ्जयोग्र विषमेक्षण कामशत्रो
श्रीकान्त पीतवसनाम्बुदनील शौरे ।
ईशान कृत्तिवसन त्रिदशैकनाथ
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ४ ॥

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य
श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे ।
आनन्दकन्द धरणीधर पद्मनाभ
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ५ ॥

सर्वेश्वर त्रिपुरसूदन देवदेव
ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे ।
त्र्यक्षोरगाभरण बालमृगाङ्कमौले
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ६ ॥

श्रीराम राघव रमेश्वर रावणारे
भूतेश मन्मथरिपो प्रमथाधिनाथ ।
चाणूरमर्दन हृषीकपते मुरारे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ७ ॥

शूलिन् गिरीश रजनीशकलावतंस
कंसप्रणाशन सनातन केशिनाश ।
भर्ग त्रिनेत्र भव भूतपते पुरारे
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ८ ॥

गोपीपते यदुपते वसुदेवसूनो
कर्पूरगौर वृषभध्वज भालनेत्र ।
गोवर्धनोद्धरण धर्मधुरीण गोप
त्याज्या भटा य इति सन्ततमामनन्ति ॥ ९ ॥

स्थाणो त्रिलोचन पिनाकधर स्मरारे
कृष्णानिरुद्ध कमलाकर कल्मषारे ।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप
त्याज्या भटा य इति सन्ततमामनन्ति ॥ १० ॥

अष्टोत्तराधिकशतेन सुचारुनाम्नां
सन्दर्भितां ललितरत्नकदम्बकेन ।
सन्नामकां दृढगुणां द्विजकण्ठगां यः
कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ ११ ॥

॥ अगास्तिरूवाच ॥

यो धर्मराज रचितां ललितप्रबन्धां
नामावलीं सकलकल्मषबीजहन्त्रीम् ।
धीरोऽत्र कौस्तुभभृतः शशिभूषणस्य
नित्यं जपेत् स्तनरसं स पिबेन्न मातुः ॥ १२ ॥

॥इति श्रीस्कन्दमहापुराणे काशीखण्डपूर्वार्धे यमप्रोक्तं श्रीहरिहराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Other Keywords:-

Harihara Ashtottara Shatanama Stotra, Harihara Ashtottara Shatanama Harihara, lord Harihara Ashtottara Shatanama stotra, sri Harihara stotra, Stotra Harihara god, shree Harihara, lord sri Harihara ashtottara shatanama stotram, Harihara Stotram in hindi, Harihara Ashtottara Shatnama Stotram in sanskrit, Download Sri Harihara Ashtottara Shatanama Stotram in PDF, Sri Harihara Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Harihara, Free download shri Harihara ashtottara shatanama stotra, Harihara Dev Ashtottara Shatanama Stotram

Sri Kamala Ashtottara Shatanama Stotram | श्री कमला अष्टोत्तरशतनामस्तोत्रम्

Maa Kamala

Maa Kamala

 

Sri Kamala Ashtottara Shatanama Stotram – श्री कमला अष्टोत्तरशतनामस्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

अक्षस्त्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दशतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्।।

॥ स्तोत्र ॥

॥ श्री शिव उवाच ॥

शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १ ॥

महामाया महालक्ष्मीर्महावाणी महेश्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ २ ॥

कालरात्रिः कुहूः पूर्णानन्दाद्या भद्रिका निशा ।
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३ ॥

शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ ४ ॥

वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्वेश्वरी विश्वमाता वरदाभयदा शिवा ॥ ५ ॥

शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।
गदिनी मुण्डमाला च कमला करुणालया ॥ ६ ॥

पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी ।
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ ७ ॥

गया गङ्गा च यमुना गोमती गरुडासना ।
गण्डकी सरयू तापी रेवा चैव पयस्विनी ॥ ८ ॥

नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥ ९ ॥

ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १० ॥

श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥ ११ ॥

त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी ।
तरुणी च तमोहन्त्री मङ्गला मङ्गलायना ॥ १२ ॥

मधुकैटभमथनी शुम्भासुरविनाशिनी ।
निशुम्भादिहरा माता हरिशङ्करपूजिता ॥ १३ ॥

सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शम्भुवनिता सिन्धुतीरनिवासिनी ॥ १४ ॥

गन्धर्वगानरसिका गीता गोविन्दवल्लभा ।
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ १५ ॥

चन्द्रावली चन्द्रमुखी चन्द्रिका चन्द्रपूजिता ।
चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा ॥ १६ ॥

सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ १७ ॥

त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशय ॥ १८ ॥

इमं स्तवं यः पठतीह मर्त्यो
वैकुण्ठपत्न्याः परमादरेण ।
धनाधिपाद्यैः परिवन्दितः स्यात्
प्रयास्यति श्रीपदमन्तकाले ॥ १९ ॥

॥ इति शाक्तप्रमोदे श्रीकमलाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Kamala Ashtottara Stotra, Maa Kamala Shatanama Stotram, goddess Kamala , Kamala  Mahavidya