Sri Kamala Ashtottara Shatanama Stotram | श्री कमला अष्टोत्तरशतनामस्तोत्रम्

Maa Kamala

 

Sri Kamala Ashtottara Shatanama Stotram – श्री कमला अष्टोत्तरशतनामस्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

अक्षस्त्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दशतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्।।

॥ स्तोत्र ॥

॥ श्री शिव उवाच ॥

शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १ ॥

महामाया महालक्ष्मीर्महावाणी महेश्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ २ ॥

कालरात्रिः कुहूः पूर्णानन्दाद्या भद्रिका निशा ।
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३ ॥

शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ ४ ॥

वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्वेश्वरी विश्वमाता वरदाभयदा शिवा ॥ ५ ॥

शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।
गदिनी मुण्डमाला च कमला करुणालया ॥ ६ ॥

पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी ।
गोलोकनाथरमणी गोलोकेश्वरपूजिता ॥ ७ ॥

गया गङ्गा च यमुना गोमती गरुडासना ।
गण्डकी सरयू तापी रेवा चैव पयस्विनी ॥ ८ ॥

नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥ ९ ॥

ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १० ॥

श्रुतिरूपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥ ११ ॥

त्रिलोकजननी तन्त्रा तन्त्रमन्त्रस्वरूपिणी ।
तरुणी च तमोहन्त्री मङ्गला मङ्गलायना ॥ १२ ॥

मधुकैटभमथनी शुम्भासुरविनाशिनी ।
निशुम्भादिहरा माता हरिशङ्करपूजिता ॥ १३ ॥

सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शम्भुवनिता सिन्धुतीरनिवासिनी ॥ १४ ॥

गन्धर्वगानरसिका गीता गोविन्दवल्लभा ।
त्रैलोक्यपालिनी तत्त्वरूपा तारुण्यपूरिता ॥ १५ ॥

चन्द्रावली चन्द्रमुखी चन्द्रिका चन्द्रपूजिता ।
चन्द्रा शशाङ्कभगिनी गीतवाद्यपरायणा ॥ १६ ॥

सृष्टिरूपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ १७ ॥

त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशय ॥ १८ ॥

इमं स्तवं यः पठतीह मर्त्यो
वैकुण्ठपत्न्याः परमादरेण ।
धनाधिपाद्यैः परिवन्दितः स्यात्
प्रयास्यति श्रीपदमन्तकाले ॥ १९ ॥

॥ इति शाक्तप्रमोदे श्रीकमलाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Kamala Ashtottara Stotra, Maa Kamala Shatanama Stotram, goddess Kamala , Kamala  Mahavidya