Sri Krishna Ashtottara Shatanama Stotram – श्री कृष्ण 108 नाम स्तोत्रम्

Krishana

Sri Krishna Ashtottara Shatanama Stotram – श्री कृष्ण अष्टोत्तरशतनाम स्तोत्रम्

॥ ध्यान ॥

शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम्।
मधुररवकलेशं शं भजे भ्रातृशेषं
व्रजजनवनितेशं माधवं राधिकेशम्।।

॥ स्तोत्र ॥

श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥१॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥२॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४ ॥

नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ।
नवनीतनवाहारो मुचुकुन्दप्रसादकः ॥ ५ ॥

षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ।
शुकवागमृताब्धीन्दुर्गोविन्दो योगिनां पतिः ॥ ६ ॥

वत्सवाटचरोऽनन्तो धेनुकासुरभञ्जनः ।
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥ ७ ॥

उत्तालतालभेत्ता च तमालश्यामलाकृतिः ।
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥ ८ ॥

इलापतिः परं ज्योतिर्यादवेन्द्रो यदूद्वहः ।
वनमाली पीतवासाः पारिजातापहारकः ॥ ९ ॥

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ।
अजो निरञ्जनः कामजनकः कञ्जलोचनः ॥ १० ॥

मधुहा मथुरानाथो द्वारकानायको बली ।
वृन्दावनान्तसंचारी तुलसीदामभूषणः ॥ ११ ॥

स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ।
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ॥ १२ ॥

मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ।
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ॥ १३ ॥

अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ।
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकः ॥ १४ ॥

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ।
सत्यवाक्सत्यसङ्कल्पः सत्यभामारतो जयी ॥ १५ ॥

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ।
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥ १६ ॥

वृषभासुरविध्वंसी बाणासुरकरान्तक ।
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥ १७ ॥

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ।
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ १८ ॥

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः ।
नारायणः परब्रह्म पन्नगाशनवाहनः ॥ १९ ॥

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ।
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥ २० ॥

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ।
एवं श्रीकृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ॥ २१ ॥

कृष्णनामामृतं नाम परमानन्दकायकम् ।
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् ॥ २२ ॥

।। इति श्रीपद्मपुराणे उत्तरखण्डे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।।

Other Keywords:-

Krishna Ashtottara Shatanama Stotra, Krishna Ashtottara Shatanama Krishna, lord Krishna Ashtottara Shatanama stotra, sri Krishna stotra, Stotra Krishna god, shree Krishna, lord sri Krishna ashtottara shatanama stotram, Krishna Stotram in hindi, Krishna Ashtottara Shatnama Stotram in sanskrit, Download Sri Krishna Ashtottara Shatanama Stotram in PDF, Sri Krishna Ashtottara Shatanama Stotram  IN HINDI, Ashtottara Shatanama Stotram of Sri Krishna, Free download shri Krishna ashtottara shatanama stotra, Krishna Dev Ashtottara Shatanama Stotram