Sri Chinnamasta Ashtottara Shatanama Stotram | श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

Maa Chinnamasta

 

Sri Chinnamasta Ashtottara Shatanama Stotram – श्री छिन्नमस्तादेवि अष्टोत्तरशतनाम स्तोत्रम्

 
Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कर्त्रिकां
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ।
नागाबद्धशिरोमणिं त्रिनयनां ह्रद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरिदृढां ध्यायेज्जवासंनिभाम् ।।

ॐ अस्य श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिरनुष्टुप्छन्दः श्रीछिन्नमस्ता देवता मम सकलसिद्धि प्राप्तये जपे विनियोगः  ।

॥ श्री पार्वत्युवाच ॥

नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् ।
कथितं भवता शम्भो सद्यः शत्रुनिकृन्तनम् ॥ १ ॥

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् ॥ २ ॥

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय ।

॥ श्री सदाशिव उवाच ॥

अष्टोत्तरशतनाम्नां पठ्यते तेन सर्वदा ॥ ३ ॥
सहस्रनामपाठस्य फलं प्राप्नोति निश्चितम् ।

॥ स्तोत्र ॥

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चण्डेश्वरी चण्डमाता चण्डमुण्डप्रभञ्जिनी ॥ ४ ॥

महाचण्डा चण्डरूपा चण्डिका चण्डखण्डिनी ।
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला ॥ ५ ॥

कोपातुरा कोपयुता कोपसंहारकारिणी ।
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी ॥ ६ ॥

डाकिनीकर्मनिरता डाकिनीकर्मपूजिता ।
डाकिनीसङ्गनिरता डाकिनीप्रेमपूरिता ॥ ७ ॥

खट्वाङ्गधारिणी खर्वा खड्गखप्परधारिणी ।
प्रेताशना प्रेतयुता प्रेतसङ्गविहारिणी ॥ ८ ॥

छिन्नमुण्डधरा छिन्नचण्डविद्या च चित्रिणी ।
घोररूपा घोरदृष्टिर्घोररावा घनोदरी ॥ ९ ॥

योगिनी योगनिरता जपयज्ञपरायणा ।
योनिचक्रमयी योनिर्योनिचक्रप्रवर्तिनी ॥ १० ॥

योनिमुद्रा योनिगम्या योनियन्त्रनिवासिनी ।
यन्त्ररूपा यन्त्रमयी यन्त्रेशी यन्त्रपूजिता ॥ ११ ॥

कीर्त्या कपर्दिनी काली कङ्काली कलकारिणी ।
आरक्ता रक्तनयना रक्तपानपरायणा ॥ १२ ॥

भवानी भूतिदा भूतिर्भूतिदात्री च भैरवी ।
भैरवाचारनिरता भूतभैरवसेविता ॥ १३ ॥

भीमा भीमेश्वरी देवी भीमनादपरायणा ।
भवाराध्या भवनुता भवसागरतारिणी ॥ १४ ॥

भद्रकाली भद्रतनुर्भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी ॥ १५ ॥

सुभव्या भव्यवदना सुमुखी सिद्धसेविता ।
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता ॥ १६ ॥

शुभदा शुभगा शुद्धा शुद्धसत्त्वा शुभावहा ।
श्रेष्ठा दृष्टिमयी देवी दृष्टिसंहारकारिणी ॥ १७ ॥

शर्वाणी सर्वगा सर्वा सर्वमङ्गलकारिणी ।
शिवा शान्ता शान्तिरूपा मृडानी मदनातुरा ॥ १८ ॥

इति ते कथितं देवी स्तोत्रं परमदुर्लभम् ।
गुह्याद्गुह्यतरं गोप्यं गोपनियं प्रयत्नतः ॥ १९ ॥

किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परम् ॥ २० ॥

स्तम्भनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च ।
त्रिकालपठनादस्य सर्वे सिद्ध्यन्त्यसंशयः ॥ २१ ॥

महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्यमनन्यबुद्धयः ।
पठन्ति ये भक्तियुता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः ॥ २२ ॥

॥ इति शाक्तप्रमोदे श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Chinnamasta Ashtottara Stotra, Maa Chinnamasta Shatanama Stotram, goddess Chinnamasta,  Chinnamasta Mahavidya