Sri Matangi Ashtottara Shatanama Stotram | श्री मातङ्गी अष्टोत्तरशतनाम स्तोत्रम्

Maa Matangi

Maa Matangi

 

Sri Matangi Ashtottara Shatanama Stotram – श्री मातङ्गी अष्टोत्तरशतनाम स्तोत्रम्

Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List

।। ध्यान ।।

ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादययन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ।।

।। विनियोग ।।

ॐ अस्य श्रीमातङ्गीशतनाम्नां भगवान्मतङ्ग ऋषिरनुष्टुप्छन्दो मातङ्गी देवता मातङ्गी प्रीतये जपे विनियोगः ।।

॥ श्री भैरव्युवाच ॥

भगवञ्छ्रोतुमिच्छामि मातङ्ग्याः शतनामकम् ।
यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् ॥ १ ॥

॥ श्री भैरव उवाच ॥

शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ २ ॥

यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।
नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ ३ ॥

प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः ।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणितं देवी नामाष्टशतकं शुभम् ॥ ४ ॥

॥ स्तोत्र ॥

महामत्तमातङ्गिनी सिद्धिरूपा
तथा योगिनी भद्रकाली रमा च ।
भवानी भयप्रीतिदा भूतियुक्ता
भवाराधिता भूतिसम्पत्करी च ॥ १ ॥

जनाधीशमाता धनागारदृष्टि-
र्धनेशार्चिता धीरवासी वराङ्गी ।
प्रकृष्टा प्रभारूपिणी कामरूपा
प्रहृष्टा महाकीर्तिदा कर्णनाली ॥ २ ॥

काली भगा घोररूपा भगाङ्गी
भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा
किशोरी किशोरप्रिया नन्दईहा ॥ ३ ॥

महाकारणाकारणा कर्मशीला
कपाली प्रसिद्धा महासिद्धखण्डा ।
मकारप्रिया मानरूपा महेशी
महोल्लासिनी लास्यलीलालयाङ्गी ॥ ४ ॥

क्षमा क्षेमशीला क्षपाकारिणी चा-
क्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च
प्रभोद्भासिता भानुभास्वत्करा च ॥ ५ ॥

धराधीशमाता धनागारदृष्टि-
र्धनेशार्चिता धीवरा धीवराङ्गी ।
प्रकृष्टा प्रभारूपिणी प्राणरूपा
प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ ६ ॥

चलत्कुण्डला कामिनी कान्तयुक्ता
कपालाचला कालकोद्धारिणी च ।
कदम्बप्रिया कोटरी कोटदेहा
क्रमा कीर्तिदा कर्णरूपा च काक्ष्मी ॥ ७ ॥

क्षमाङ्गी क्षयप्रेमरूपा क्षपा च
क्षयाक्षा क्षयाह्वा क्षयप्रान्तरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूषा
शिवाङ्गी च शाकम्भरी शाकदेहा ॥ ८ ॥

महाशाकयज्ञा फलप्राशका च
शकाह्वाशकाह्वा शकाख्याशका च ।
शकाक्षान्तरोषा सुरोषा सुरेखा
महाशेषयज्ञोपवीतप्रिया च ॥ ९ ॥

जयन्ती जया जाग्रती योग्यरूपा
जयाङ्गा जपध्यानसन्तुष्टसंज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा
जयज्वालिनी यामिनी याम्यरूपा ॥ १० ॥

जगन्मातृरूपा जगद्रक्षणा च
स्वधावौषडन्ता विलम्बाविलम्बा ।
षडङ्गा महालम्बरूपासिहस्ता
पदाहारिणी हारिणी हारिणी च ॥ ११ ॥

महामङ्गला मङ्गलप्रेमकीर्ति-
र्निशुम्भक्षिदा शुम्भदर्पत्वहा च ।
तथानन्दबीजादिमुक्तिस्वरूपा
तथा चण्डमुण्डापदा मुख्यचण्डा ॥ १२ ॥

प्रचण्डाप्रचण्डा महाचण्डवेगा
चलच्चामरा चामरा चन्द्रकीर्तिः ।
सुचामीकरा चित्रभूषोज्ज्वलाङ्गी
सुसङ्गीतगीता च पायादपायात् ॥ १३ ॥

इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।
गोप्यं च सर्वतन्त्रेषु गोपनीयं च सर्वदा ॥ १४ ॥

एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसन्ध्यं च महाभक्त्या पठनीयं सुखोदयम् ॥ १५ ॥

न तस्य दुष्करं किञ्चिज्जायते स्पर्शतः क्षणात् ।
स्वकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ १६ ॥

सदैव सन्निधौ तस्य देवी वसति सादरम् ।
अयोगा ये तव एवाग्रे सुयोगाश्च भवन्ति वै ॥ १७ ॥

त एव मित्रभूताश्च भवन्ति तत्प्रसादतः ।
विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ॥ १८ ॥

लूता विस्फोटकाः सर्वे शमं यन्ति च तत्क्षणात् ।
जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ १९ ॥

अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।
यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।
तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ २० ॥

॥ इति श्रीरुद्रयामले श्रीमातङ्गीशतनामस्तोत्रम् सम्पूर्णम् ॥

Other Keywords:

Maa Matangi Ashtottara Stotra, Maa Matangi Shatanama Stotram, goddess Matangi, Matangi  Mahavidya