Sri Shodashi Ashtottara Shatanama Stotram – श्री षोडशी अष्टोत्तरशतनाम स्तोत्रम्
Click Here For Download PDF
नवरात्रि कैेलेंडर लिस्ट | Navratri Calender List
।। ध्यान ।।
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ।।
।। विनियोग ।।
ॐ अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुर्ऋषिः अनुष्टुप्छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये विनियोगः।
॥ भृगु उवाच ॥
चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १ ॥
॥ ब्रह्मोवाच ॥
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद् गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ २ ॥
॥ स्तोत्र ॥
ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ ३ ॥
शारदा शब्दनिलया सागरा सरिताम्बरा ।
शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ ४ ॥
स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ ५ ॥
साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ ६ ॥
षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ ७ ॥
क्रतुरूपा क्रतुमती ऋभुक्षा क्रतुमण्डिता ।
कवर्गादिपवर्गान्ता अन्तः स्थानन्तरूपिणी ॥ ८ ॥
अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ ९ ॥
काली कराली कामेशी छाया संज्ञाप्यरुन्धती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ १० ॥
मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥ ११ ॥
भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ १२ ॥
धर्मकर्मादिरहिता धर्मकर्मपरायणा ।
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ १३ ॥
भैरवी भुवना माताऽभयदा भवसुन्दरी ।
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ १४ ॥
रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ १५ ॥
शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ १६ ॥
अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ १७ ॥
सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ १८ ॥
सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ १९ ॥
पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमी दिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥ २० ॥
।। इति ब्रह्मयामले पूर्वखण्डे श्रीषोडश्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।।
Other Keywords:
Maa Shodashi Ashtottara Stotra, Maa Shodashi Shatanama Stotram, goddess shodashi, Shodashi Mahavidya